Volume 14 | Issue 5
Volume 14 | Issue 5
Volume 14 | Issue 5
Volume 14 | Issue 5
Volume 14 | Issue 5
प्रवृत्तिनिवृत्तिपरक: वेदः मानवराशेरूपलभमानेषु साहित्येष्वादिम: परमप्रमाणभूतश्च भवति। "द्वे विद्ये वेदितव्ये..अथ परा यया तदक्षरमधिगम्य ते" इत्युक्त्वा उपनिषदि परा अपरेति विद्याभेदं प्रदर्श्य ब्रह्मविद्या प्रस्तूयते। अत्र पुरोदृश्यमानप्रपञ्चस्य आत्यन्तिकीं सत्तामन्विष्यमाणा चिन्ता प्रत्यगात्मभूते नित्यशुद्धमुक्तस्वरूपे ब्रह्मणि समभ्येति। श्रवणमनननिदिध्यासनैरुपायैः अहंब्रह्मास्मीति साक्षादनुभवोजायते;शरीरेन्द्रियमनोबुद्ध्यादिकं तु केवलमुपाधय एव। उपाध्यन्तर्गतं चैतन्यं जीवइत्युच्यते; निरुपाधिकं चैतन्यं परमात्मा एव। अतः "जीवो ब्रह्मैव नापरः"इति आत्मैकत्वमद्वितीयत्वं समर्थयति।" यद्वाचा अनभ्युदितं येनवागभ्युद्यते तदेव ब्रह्मत्वं विद्धि" इत्यात्मन: अगोचरत्वं तथा "यतो वा इमानि भूतानि जायन्ते" इतितटस्थतया च लक्षणमुच्यते। औपाधिकस्य जीवस्य निरुपाधिकस्य परमात्मनश्च ऐक्यादेव परमपुरुषार्थस्यमोक्षस्योपलब्धि: तदर्थमेव सर्वेषां वेदान्तानां प्रवृत्तिः।